|
|
 |
 |
|
|
७ द्रोणपर्व.jpg)
॥ श्रीः ॥
7.56. अध्यायः 056
Mahabharata - Drona Parva - Chapter Topics
नारदेन सृञ्जयम्प्रति सुहोत्रचरित्रकीर्तनम्॥ 1 ॥

Mahabharata - Drona Parva - Chapter Text
नारद उवाच। 7-56-0x(4411)(46987)
सुहोत्रं नाम राजानं मृतं सृञ्जय शुश्रुम।
एकवीरमशक्यं तममरैरभिवीक्षितुम्॥ 7-56-1(46988)
यः प्राप्य राज्यं धर्मेण ऋत्विङ्मन्त्रिपुरोहितान्।
सम्मान्य चात्मनः श्रेयः पृष्ट्वा तेषां मते स्थितः॥ 7-56-2(46989)
प्रजानां पालनं धर्मो दानमिज्या द्विषज्जयः।
एतत्सुहोत्रो विज्ञाय धर्म्यमैच्छद्धनागमम्॥ 7-56-3(46990)
धर्मेणाराधयन्देवान्बाणैः शत्रूञ्जयंस्तथा।
सर्वाण्यपि च भूतानि स्वगुणैरन्वरञ्जयत्॥ 7-56-4(46991)
यो भुक्त्वेमां वसुमतीं म्लेच्छाटविकवर्जिताम्।
यस्मै ववर्ष पर्जन्यो हिरण्यं परिवत्सरान्॥ 7-56-5(46992)
हैरण्यास्तत्र वाहिन्यः स्वैरिण्यो व्यवहन्पुरा।
ग्राहान्कर्कटकांश्चैव मत्स्यांश्च विविधान्बहून्॥ 7-56-6(46993)
कामान्वर्षति पर्जन्यो रूप्याणि विविधानि च।
सौवर्णान्यप्रमेयाणि वाप्यश्च क्रोशसम्मिताः॥ 7-56-7(46994)
सहस्रं वामनान्कुब्जान्नक्रान्मकरकच्छपान्।
सौवर्णान्विहितान्दृष्ट्वा ततोऽस्मयत वै तदा॥ 7-56-8(46995)
तत्सुवर्णमपर्यन्तं राजर्षिः कुरुजाङ्गले।
ईजानो वितते यज्ञे ब्राह्मणेभ्यो ह्यमन्यत॥ 7-56-9(46996)
सोऽश्वमेधसहस्रेण राजसूयशतेन च।
पुण्यैः क्षत्रिययज्ञैश्च प्रभूतवरदक्षिणैः॥ 7-56-10(46997)
काम्यनैमित्तिकाजस्रैरिष्ट्वेष्टां गतिमाप्तवान्।
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया॥ 7-56-11(46998)
पुत्रात्पुण्यतरस्तुभ्यं मा पुत्रमनुतप्यथाः।
अयज्वानमदक्षिण्यमभि श्वैत्येत्युदाहरत्॥ ॥ 7-56-12(46999)
इति श्रीमन्महाभारते द्रोणपर्वणि अभिमन्युवधपर्वणि षोडशराजकीये षट्पञ्चाशत्तमोऽध्यायः॥ 56 ॥
Mahabharata - Drona Parva - Chapter Footnotes
5-56-6 हैरण्या हिरण्मयाः ग्राहादयोऽपि। वाहिन्यो नद्यः। स्वैरिण्यः सर्वजनोपभोग्याः॥ 5-56-56 षट्पञ्चाशत्तमोऽध्यायः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|